Monday, January 9, 2023

॥ ऋणमोचन अङ्गारकस्तोत्रम् ॥

 

॥ ऋणमोचन अङ्गारकस्तोत्रम् ॥ 


अथ ऋणग्रस्तस्य ऋणविमोचनार्थ अङ्गारकस्तोत्रम् |

स्कन्द उवाच । ऋणग्रस्तनराणां तु ऋणमुक्तिः कथं भवेत् ।


ब्रह्मोवाच । 

वक्ष्येऽहं सर्वलोकानां हितार्थं हितकामदम् ।


अस्य श्री अङ्गारकमहामन्त्रस्य गौतम ऋषिः। अनुष्टुप्छन्दः।

अङ्गारको देवता। मम ऋणविमोचनार्थे अङ्गारकमन्त्रजपे विनियोगः। 


ध्यानम्  

रक्तमाल्याम्बरधरः शूलशक्तिगदाधरः । 

चतुर्भुजो मेषगतो वरदश्च धरासुतः ॥ १ ॥


मङ्गलो भूमिपुत्रश्च ऋणहर्ता धनप्रदः ।

स्थिरासनो महाकायो सर्वकाम फलप्रदः ॥ २ ॥


लोहितो लोहिताक्षश्च सामगानां कृपाकरः । 

धरात्मजः कुजो भौमो भूमिदो भूमिनन्दनः ॥ ३॥


अङ्गारको यमश्चीव सर्वरोगापहारकः ।

सृष्टेः कर्ता च हर्ता च सर्वदेशैश्च पूजितः || ४||


एतानि कुजनामानि नित्यं यः प्रयतः पठेत् ।

ऋणं न जायते तस्य श्रियं प्राप्नोत्यसंशयः ॥ ५ ॥


अङ्गारक महीपुत्र भगवन् भक्तवत्सल । 

नमोऽस्तु ते ममाशेषं ऋणमाशु विनाशय ।। ६ ।।


रक्तगन्धैश्च पुष्पैश्च धूपदीपैर्गुडोदनैः ।

मङ्गलं पूजयित्वा तु मङ्गलाहनि सर्वदा ॥ ७॥


एकविंशति नामानि पठित्वा तु तदन्तिके ।

ऋणरेखा प्रकर्तव्या अङ्गारेण तदग्रतः || ८||


ताश्च प्रमार्जयेन्नित्यं वामपादेन संस्मरन् ।

एवं कृते न सन्देहः ऋणान्मुक्तः सुखी भवेत् ॥ ९॥


महतीं श्रियमाप्नोति धनदेन समो भवेत् ।

भूमिं च लभते विद्वान् पुत्रानायुश्च विन्दति ॥ १० ॥


मूलमन्त्रः ।


अङ्गारक महीपुत्र भगवन् भक्तवत्सल । 

नमस्तेऽस्तु महाभाग ऋणमाशु विनाशय ।। ११ ।।


अर्घ्यम् ।


भूमिपुत्र महातेज: स्वेदोद्भव पिनाकिनः । 

ऋणार्थस्त्वां प्रपन्नोऽस्मि गृहाणार्थ्यं नमोऽस्तु ते ॥ १२ ॥


 । इति ऋणमोचन अङ्गारकस्तोत्रं सम्पूर्णम् ।।

1 comment: