Monday, May 30, 2011


         गुरुस्तव

 सर्वतन्त्रस्वतंत्राय धर्मशास्त्रप्रचारिणे
 निर्वाणपीठेश्वराय वेदान्तगुरवे नमः ।।  1
 सुप्रसन्नं कर्मनिष्ठं निजानन्दस्वरुपिणम्
अज्ञानतिमिरध्वान्तं प्रणमामि मुहुर्मुहुः॥ 2
ज्ञाननिष्ठं धर्मनिष्ठं द्वंदातीतं यतेंद्रियम् । 
अज्ञानतिमिरध्वान्तं प्रणमामि मुहुर्मुहुः॥ 3
शरण्यं सर्वभक्तानां ब्रह्मानन्दस्वरूपकम् । 
अज्ञानतिमिरध्वान्तं प्रणमामि मुहुर्मुहुः॥4
 श्रेयस्कामं महाभागं मानातीतं यतीश्वरम् । 
अज्ञानतिमिरध्वान्तं प्रणमामि मुहुर्मुहुः॥ 5
जपध्यानेरतं नित्यं भयशोकादिवर्जितम् । 
अज्ञानतिमिरध्वान्तं प्रणमामि मुहुर्मुहुः॥ 6 
लोभमोहपरित्यक्तमाशापाशविवर्जितम् ।
अज्ञानतिमिरध्वान्तं प्रणमामि मुहुर्मुहुः॥ 7 
विश्वदेवं गुरुवर्यं साक्षाद्शंकररुपिणम् ।  
अज्ञानतिमिरध्वान्तं प्रणमामि मुहुर्मुहुः॥ 8 
गुरुस्तवमिदं पुण्यं ज्ञानविज्ञानदायकम् । 
मयाविरच्यते ह्येतदनंत ब्रह्मचारिणा ॥
      

No comments:

Post a Comment