योगारुढं परं शान्तं सौम्यरुपं गुणाकरम् । 
प्रणमाम्यतुलानन्दं चैतन्याहित चेतसम् ॥ 1
सर्वशास्त्रार्थनिष्णातं विप्रकुलसमुद्भवम् ।  
प्रणमाम्यतुलानन्दं तपोरूपं परं गुरुम् ॥2  
 गीतागोविंदगंगानां गवां संपूजने रतम्। 
प्रणमाम्यतुलानन्दं लोकवन्द्यं महागुरुम् ॥3   
अज्ञानध्वांतविध्वंसप्रचंडमतिभास्करम् । 
प्रणमाम्यतुलानन्दं ज्ञानरूपं परं गुरुम् ॥ 4 
हर्षामर्षविनिर्मुक्तं  धृतकाषायवाससम् ।  
प्रणमाम्यतुलानन्दं प्रातःपूज्यं तपोधनम् ॥ 5 
श्रुतिसिद्धांतज्ञातारं निजानंदात्मकं परम्।  
प्रणमाम्यतुलानन्दं शिवरूपं परं गुरुम् ॥ 6  
 निर्द्वन्दं वै सदानन्दं मुक्तप्रपंचपंजरम्।  
प्रणमाम्यतुलानन्दं विष्णुरुपं महागुरुम् ॥ 7  
आत्मानात्मविवेकिनं ज्ञानविज्ञानसंज्ञितम्।  
प्रणमाम्यतुलानन्दं ब्रह्मरुपं परं गुरुम् ॥ 8  
अष्ठश्लोकी स्तुतिरेषा पुण्यानन्दविवर्धिनी । 
विरचिता ह्यनंतेन गुरुदेवप्रसादतः ॥ 
 
No comments:
Post a Comment